विज्ञानम्

ज्ञानमिति पदं तु ‘ज्ञा अवबोधने’ इति धातुना व्युत्पन्नम्। वस्तूनां स्वरूपज्ञानं विषयाणाम् इन्द्रियजन्यं ज्ञानं च अस्य परिधिः। वि इति उपसर्गस्य योजनेन, ‘विशिष्टं ज्ञानं विज्ञानम्’ इति अर्थः स्फुरति। पुरातनाः ज्ञानमिति शब्दम् आत्मज्ञानविषये, विज्ञानशब्दं लौकिकविषयाणां ज्ञाने उपयुज्यन्ते स्म इति ज्ञायते। अमरकोशे, ‘मोक्षे धी ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः’ इति लिखितमस्ति। अस्मिन्नर्थे, ‘विविधं ज्ञानं विज्ञानम्’ इति वक्तुं शक्यते। कूर्मपुराणेऽपि -

चतुर्दशानां विद्यानां धारणं हि यथार्थतः।
विज्ञानमितरद् विद्यात् येन धर्मो विवर्धते॥ इति उक्तम्।

आङ्ग्लभाषायां विज्ञानम्, ‘Science’ इति पदेन व्यवह्रियते। अस्य पदस्य मूलं तु, ‘Scientia’ इति ल्याटिन् भाषापदम्। तस्यां भाषायां पदस्यास्य अर्थः ज्ञानमित्येव भवति। मानवः सर्वदा परितः स्थितानां वस्तूनां ज्ञानसम्पादने उत्सुकः वर्तते। अस्मिन् विषये सः अन्यैः जीविभिः भिन्न एव। प्राकृतिकानां विषयाणाम् अध्ययनम्, तेषां प्रायोगिकपरिशीलनं, फलितांशानां विचारणम् इत्यादयः विज्ञाने अन्तर्भवन्ति।

प्राचीनकाले विज्ञाने संयोजिताः अंशाः अल्पीया एव आसन्। अतः तस्य विभजनस्यापि आवश्यकता नासीत्। कालक्रमेण विज्ञानं बहुधा अवर्धत। विज्ञानिनः प्रत्यहं नूतनानि आविष्काराणि कुर्वन्ति। प्राचीनान् सिद्धान्तान् तिरस्कुर्वन्ति अथवा तेषां संस्करणं कुर्वन्ति। अनेन विज्ञानस्य विभजनम् आवश्यकम् अभवत्। प्रथमतः विज्ञानं भौतिकविज्ञानं (Physical Sciences) जीवविज्ञानं (Biological Sciences) चेति द्विधा विभक्तम्। अचेतनवस्तूनां ज्ञानं प्रथमभागस्य विषयः, द्वितीयभागः जीविनां विषयम् अभ्यस्यति। पुनः एतौ द्वौ भागौ अवर्धेताम्। भौतिकविज्ञानं, भौतविज्ञानम् (Physics), रसायनविज्ञानम् (Chemistry), भूगर्भशास्त्रम् (Geology), भूविवरणम् (Geography), खगोलशास्त्रम् (Astronomy), सागरशास्त्रम् (Oceanology) इत्यादिनाम्ना पुनः विभक्तं वर्तते। जीवशास्त्रेऽपि सस्यशास्त्रम् (Botany), प्रणिशास्त्रम् (Zoology), पक्षिशास्त्रम् (Ornithology), मानवशास्त्रम् (Anthropology), कीटशास्त्रम् (Entomology) इत्यादयः विभागाः सन्ति। एते सर्वे विभागाः इदानीम् उपविभागयुक्ताः पुनर्विभक्ताः अतीव वर्धिताश्च।


विज्ञानस्य विविधाः विभागाः  पश्यतु  चर्चा  सम्पादनम् 
प्राकृतिकविज्ञानम्:
  • खगोलशास्त्रम्:खभौतशास्त्रम् 
  • जीवविज्ञानम्: जीवरचनाशास्त्रम् • जीवरसायनशास्त्रम् • जैविकयन्त्रशास्त्रम् • जीवभौतशास्त्रम् • जैविकतन्त्रज्ञानम् • सस्यशास्त्रम् • जीवकणशास्त्रम् • जीववर्धनशास्त्रम् • परिसरजीवशास्त्रम् • जीवविकासशास्त्रम् • वंशशास्त्रम् • सूक्ष्मजीवशास्त्रम्  • नाडीविज्ञानम् • पुरातनजीवशास्त्रम् • औषधशास्त्रम् • जीवक्रियाशास्त्रम् • सैद्धान्तिकजीवशास्त्रम् • प्राणिशास्त्रम्
  • रसायनविज्ञानम्: विश्लेषकरसायनशास्त्रम् • जीवरसायनशास्त्रम् • अजैविकरसायनशास्त्रम् • पदार्थविज्ञानम् • औषधीयरसायनशास्त्रम् • लोहशास्त्रम् • परमाणुरसायनशास्त्रम् • जैविकरसायनशास्त्रम् • भौतिकरसायनशास्त्रम् • सैद्धान्तिकरसायनशास्त्रम्
  • भूविज्ञानम्: वायुमण्डलविज्ञानम् • परिसरजीवशास्त्रम् • परिसरविज्ञानम् • भूगोलशास्त्रम् • भूरचनाशास्त्रम् • जलविज्ञानम् •
  • भौतविज्ञानम्: अणुविज्ञानम् • गणनात्मकभौतशास्त्रम् • प्रायोगिकभौतशास्त्रम् • यन्त्रविज्ञानम् • कणभौतविज्ञानम् • क्वाण्टंभौतशास्त्रम् • घनभौतशास्त्रम् • सैद्धान्तिकभौतशास्त्रम् • उष्णबलविज्ञानम्
समाजविज्ञानम्:

पुरातत्त्वशास्त्रम् • अर्थशास्त्रम् • नाडीकुलविज्ञानम् • इतिहासः • भूगोलशास्त्रम् • भाषाशास्त्रम् • राजनीतिशास्त्रम् • समाजशास्त्रम्

  • व्यावहारिकविज्ञानम्: मानवविज्ञानम् • प्राणिव्यवहारविज्ञानम् • मनोशास्त्रम् • समाजजीवशास्त्रम्
क्रियात्मकविज्ञानम्:

शासनशास्त्रम् • कृषिशास्त्रम् • वास्तुशिल्पशास्त्रम् • गणकयन्त्रतन्त्रज्ञानम् • शिक्षणम् • यन्त्रशास्त्रम् • अपराधशास्त्रम् • उद्यमशास्त्रम्  • सूचनाविज्ञानम् • मापनशास्त्रम् • युद्धशास्त्रम् • दृष्टिशास्त्रम् 

  • आरोग्यविज्ञानम्: जीववैद्यकीयतन्त्रज्ञानम् • दन्तवैद्यशास्त्रम् • वैद्यकीयविज्ञानम् • वैद्यशास्त्रम् • शुश्रूषाशास्त्रम् • औषधशास्त्रम् • समाजसेवाशास्त्रम् • प्राणिवैद्यशास्त्रम्
सम्बद्धानि शास्त्राणि

विज्ञानस्य इतिहासः • गणितम् • विज्ञानस्य तत्त्वशास्त्रम् • वैज्ञानिकः विधिः • तन्त्रज्ञानम्

  • अन्तर्विभागीयानि क्षेत्राणि: कृतकबुद्धिमत्ता • ज्योतिशास्त्रम् • जैविकयन्त्रशास्त्रम् • संज्ञानात्मकविज्ञानम् • सांस्कृतिकशास्त्रम् • संविधिशास्त्रम् • आरोग्यम् • मानवविज्ञानम् • तर्कशास्त्रम् • नाडीविज्ञानम् •

Other Languages

Copyright